डॉ. गीता पेंडसे
उपमाराजितं येन निर्मितं काव्यलीलया ।
शृंगारादिरसानां च वैपुल्यं वर्धितं तदा
कवीनांमंडलाकारे मध्यवर्ती विराजते ।
सरस्वतीकंठाभरणं कालिदास नमो स्तु ते।
महाकवेः काव्यप्रेरिताःकवयः जाताः महीतले।
हाराः तैः काव्यमयाः समर्पिताःदेव्याः कण्ठे ।
कतिपयविबुधाः प्रमुदितजाताःकाव्यप्राशने निमज्जने।
विकसितजातं ह्ऋदयं तेषां काव्यानन्दे विमलरसे।
कुशलकवेः काव्यप्रभावः जगति भवति विस्मयजनिते।
लसत्विलासे काव्यकलापे कालिदासकवि विराजते।
गुणीजनानां मनसि स्थित्वा कविवर , यासि स्वर्लोके।
रुचिरवाङ्ममयं गीर्वाण्याःह्ऋद्यं विलसति भूमितले।
कालिदासक्ऋतकाव्याभरणैः सरस्वति हे, सुशोभिते।
लिखितं काव्यं येन कविना कविकुलराजितजनमध्ये।
दाता जातः भोजराजन्ऋपः तस्मिन् मणिकांचनयोगे।
सकलजनैरभिवादितकविकुलभूषणः भवति , हे शुध्दमते।
geetapendse@rocketmail.com
डॉ. गीता भास्कर पेंडसे.
एम.ए.,बी.एड्.,पीएच् डी, (संस्कृत. मूंबई विद्यापीठ) निवृत्त प्राध्यापिका) वास्तव्य ठाणे.
वाचन लेखनाची आवड
Be the first to comment